________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ११७६ ॥
Jain Education Intent
ननूपरि गच्छन् लोकान्तादुपर्यपि किं न गच्छति ? देहत्याग भूमेरधस्तिर्यग् वा किं न गच्छति ? इत्याह-नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् ।
योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरस्ति ॥ ५९ ॥
उपग्रहो गैत्यवष्टम्भकारी धर्मास्तिकायलक्षणो मत्स्यानामिव जलम् लोकान्तात् परतस्तस्याभावान्नोर्ध्वं याति । गौरवमधोगमनहेतुः, तस्याभावान्नाधो याति । योगः काययोगादिः, प्रयोगः परप्रेरणम्, तयोर्विगमादभावान्न तिर्यग् याति ॥ ५९ ॥
I
इह च कर्ममुक्तस्योर्ध्वदेशनियमेन गतिर्नोपपद्यत इतिवादिनं प्रत्याह-
लाघवयोगाद् धूमवदलाबुफलवच्च सङ्गविरहेण । बन्धनविरहादेरण्डवच्च सिद्धस्य गतिरूर्ध्वम् ॥ ६० ॥
१ तुला- “ ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ॥ २२ ॥ तदनन्तरमेवोर्ध्वमालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥ ९ ॥ कुलालचक्रे दोलायामिषौ वाऽपि यथेष्यते । पूर्वप्रयोगात् कर्मेह तथा सिद्धिगतिः स्मृता ॥ १० ॥ मृलेपसङ्गनिर्मोक्षाद् यथा दृष्टाऽप्स्वलावुनः । कर्मसङ्गविनिर्मोक्षात् तथा सिद्धिगतिः स्मृता ॥ ११ ॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद् यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेष्यते ॥ १२ ॥ " इति भगवता उमास्वातिना विरचितासु तत्त्वार्थसूत्रस्य अन्त्यकारिकासु ॥ २ गत्युपष्टम्भ०-मु. ॥
For Private & Personal Use Only
३ यातीति- मु. ॥
ieeeeeeeeeeee
seeal
एकादशः
प्रकाशः
श्लोकौ
५९-६०
।। १९७६ ।।
5
शुक्लध्यानवर्णनम्
10
www.jainelibrary.org