SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ॥११७५॥ ततश्च औदारिक-तैजस-कार्मणानि संसारमूलकरणानि । हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् ॥ ५८ ॥ औदारिक-तैजस-कार्मणलक्षणानि शरीराणि संसारस्य मलभूतानि करणानि साधकतमानि, इह देहत्यागभूम हित्वा एकया ऋज्व्या श्रेण्या विग्रहरहितया प्रदेशान्तराण्यस्पृशन्नेकेन समयेन समयान्तरमस्पृशन् लोकान्तं सिद्धिक्षेत्रं याति साकारोपयोगोपयुक्त इति शेषः । यदाह-- " इहं बुंदि चहत्ताणं तत्थ गंतूण सिज्झइ" [ आवश्यकनियुक्तो गा० ९५९ ] इति ।। ५८ ॥ १ 'भूतानि' इत्यत आरभ्य को [पृ० ११७८ पं०६] इतिपयन्तमेकं ३६० पत्रं संपू० मध्ये नास्ति । २ इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति । दृश्यतां पृ० ६१७। इह बुंदि-शां. । इह बुदि-हे. । इह बोंदि-मु.॥ ५८ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि। औदारिक-तैजस-कार्मणानि सर्वात्मना त्यक्त्वा ॥ २८७ ।। देहत्रयनिर्मुक्तः प्राप्य जुश्रेणिवीतिमस्पर्शाम्। समयेन केनाविग्रहेण गत्वोर्ध्वगतिमप्रतिघः ॥ २८८ ॥ सिद्धक्षेत्रे विमले जन्म-जरा-मरण रोगनिर्मुक्तः। लोकायगतः सिध्यति साकारेणोपयोगेन ॥ २८९ ॥ ६१ सादिकमनन्तमनुपममन्यावाधसुखमुत्तमं प्राप्तः। केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः ।। २९० ।।.......... ५९ नाधो गौरवबिगमादशक्यभावाश्च गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ २९३ ॥ ___योग-प्रयोगयोश्वाभावात् तिर्यग् न तस्य गतिरस्ति । सिद्धस्योर्ध्व मुक्तस्यालोकान्ताद् गतिर्भवति ।। २९४ ॥ ६० पूर्वप्रयोगसिद्धर्बन्धच्छेदादसङ्गभावाच्च। गतिपरिणामाच्च तथा सिद्धस्योवं गतिः सिद्धा ॥ २९५ ॥” इति प्रशमरतौ ॥ Jain Education Intel For Private & Personal Use Only NAw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy