________________
।। ११७३ ।।
Jain Education Inte
deeeeeeee
बादरकाययोगेन बादरौ वाङ्मनसयोगी निरुणद्धि । ततः सूक्ष्मकाययोगेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य रोद्धुमशक्यत्वात् । न हि धावन् वेपथुं वारयति । ततथ सर्वचादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्म वामनयोग निरुणद्धि । ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वात्मनैव सूक्ष्मकाययोगं निरुणद्धि ॥ ५२ ॥ एतदेवार्यात्रयेणाह -
श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा । अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ ॥ ५३ ॥ सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् । तस्मिन्ननिरुद्धे सति शक्यो रोद्धुं न सूक्ष्मतनुयोगः ॥ ५४ ॥ वचनमनोयोगयुगं सूक्ष्मं निरुणद्धि सूक्ष्मतनुयोगात् । विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् ॥ ५५ ॥
स्पेष्टाः ।। ५३ - ५५ ॥
१ रुध्यात्- शां. ॥
२ स्पष्टः- शां. खं. ॥
For Private & Personal Use Only
Beeeeeeeee
holarsee
10
॥ ११७३ ॥
www.jainelibrary.org