________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
।। ११७२ ।।
Jain Education
deeeeee
ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति । षष्ठे समये मन्धानमुपसंहरति, धनतेरसंकोचात् । सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् । अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति । समुद्घातकाले च मनोवाग्योगयोरव्यापार एव प्रयोजनाभावात् । काययोगस्यैव केवलस्य व्यापारः । तत्रापि प्रथमा-ऽष्टमसमययोरौदा रिकका यप्राधान्यादौदारिककाययोग एव । द्वितीय - षष्ठ-सप्तमेषु समयेषु पुनरौदारिकाद् बहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः । तृतीय- चतुर्थ पञ्चमेषु औदारिकाद् बहिर्वहुतरप्रदेशव्यापारादसहायकार्मणयोग एव ।
यदाह
"औदारिकप्रयोक्ता प्रथमा - ऽष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम षष्ठ- द्वितीयेषु ॥ १ ॥ कार्मणशरीरयोगी चतुर्थ पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ २ ॥ [प्रशमरतौ २७६-२७७ ]
"
परित्यक्तसमुद्घातश्च कारणवशाद्योगत्रयमपि व्यापारयति यथा -- अनुत्तरसुरपृष्टशे मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते, एवमामन्त्राणादौ वाग्योगमपि । नेतरौ द्वौ मेदाँ द्वयोरपि । काययोगमप्यौदारिकं फलक प्रत्यर्पणादाविति । ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते । इह त्रिविधोऽपि योगो द्विविधः सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम्, उत्कर्षेण च देशोना पूर्वकोटिः, तां विहृत्यान्तर्मुहूर्त्ताविशेषायुष्कः सयोगकेवली प्रथमं
onal
१ घनतरं संपू० ॥ २०कार्मणो- शां. ॥
For Private & Personal Use Only
eeeeeee
एकादशः प्रकाशः
श्लोकः ५२
॥ ११७२ ॥
5
शुक्लध्यान
वर्णनम्
10
www.jainelibrary.org