________________
॥ ११७१॥
तस्य विधिमाह
दण्ड-कपाटे मन्थानकं च समयत्रयेण निर्माय ।
तुर्ये समये लोकं निःशेषं पूरयेद्योगी ॥ ५१ ॥ इह प्रथमसमय एव स्वदेहतुल्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकार केवली करोति । द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूरयति। ततश्च सकलो लोको जीवप्रदेशः पूरितो भवति । लोकपूरणश्रवणाच्च परेषामात्मविभुत्ववादः समुद्भूतः । तथा चार्थवादः--
" विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात् " [श्वेताश्वतरोपनिषदि ३।३] इत्यादि ॥५१॥ अथ पञ्चमादिसमयेषु कर्तव्यमाह-- ___ समयैस्ततश्चतुर्भिनिवर्तते लोकपूरणादस्मात् ।
विहितायुःसमकर्मा ध्यानी प्रतिलोममार्गेण ॥ ५२ ॥ १ "विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात् । सं बाहुभ्यां धमति सं पतत्रैवाभूमी जनयन् देव एकः ॥ ३॥" इति श्वेताश्वतरोपनिषदि तृतीयेऽध्याये संपूर्णः श्लोकः ॥
का ॥११७२॥
Jain Education
For Private & Personal use only
2
ww.jainelibrary.org