________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
।। ११७० ॥
Jain Education
तत् किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याह-आयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि । तत्साम्याय तदोपक्रमेत योगी समुद्घातम् ॥ ५० ॥
यावत्यायुः कर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते । अथायुः स्थितेः सकाशाद् द्राघीयसी स्थितिर्वेदनीयस्य भवति तदा स्थितिघात - रसघाताद्यर्थं समुद्घातं प्रयत्नविशेषं करोति । यदाह'यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् |
66
स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ।। १ ।। " [प्रशमरतौ २७३ ] इति । समुद्घात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरीराद् बहिर्जीवप्रदेशानां निःसारणम् ॥ ५० ॥ १ सर्वो योगी - शां. ॥ २ तृतीयध्यान० - खं. ॥
५२
ततः क्रमेण तेनैव स पश्चाद् विनिवर्तते । लोकपूरणतः श्रीमान् चतुर्भिः समयैः पुनः ।। २९९० ।। ५३ काययोगे स्थितिं कृत्वा बादरेऽचिन्त्य चेष्टितः । सूक्ष्मीकरोति वा चित्तयोगयुग्मं स वादरम् ॥ २१९१ ॥ काययोगं ततस्त्यक्त्वा स्थितिमासाद्य तद्वये । स सूक्ष्मीकुरुते पश्चात् काययोगं च बादरम् ॥ २१९२ ।। ५४-५५ काययोगे ततः सूक्ष्मे पुनः कृत्वा स्थिति क्षणात् । योगद्वयं निगृह्णाति सद्यो वाक्चित्तसंज्ञकम् ॥ २१९३ ॥ सूक्ष्मक्रियं ततो ध्यानं साक्षाद् ध्यातुमर्हति । सूक्ष्मैक काययोगस्थस्तृतीयं यद्धि पठ्यते ॥ २१९४ | द्वासप्ततिर्विलीयते कर्म प्रकृतयस्तदा । अस्मिन् सूक्ष्मक्रिये ध्याने देवदेवस्य दुर्जयाः ॥ २१९५ ॥ ५६ तस्मिन्नेव क्षणे साक्षादाविर्भवति निर्मलम् । समुच्छिन्नक्रियं ध्यानमयोगिपरमेष्ठिनः || २१९६ ॥ " इति ज्ञानार्णवे ॥
For Private & Personal Use Only
MILIE
teeeeeeeenESpeedece
एकादशः प्रकाशः श्लोकः ५०
।। ११७० ।।
शुक्लध्यान
कोबा
www.jainelibrary.org