________________
___
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥११६८॥
एकादशः प्रकाशः श्लोकाः ४२-४३-४४ ४५-४६४७ ॥ ११६८॥
अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते । वदनारविन्दसंपातिराजहंसभ्रमं दधति ॥ ४२ ॥ प्राकारास्त्रय उ.विभान्ति समवसरणस्थितस्यास्य । कृतविग्रहाणि सम्यक्चारित्रज्ञान-दर्शनानीव ॥ ४३ ॥ चतुराशावर्तिजनान युगपदिवानुग्रहीतुकामस्य । चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः ॥ ४४ ॥ अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ॥ ४५॥ तेजःपुञ्जप्रसरप्रकाशिताशेषदिक्कमस्य तदा।। त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम् ॥ ४६॥ भुवनपति-विमानपति-ज्योतिःपति-वानमन्तराः सविधे ।
तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः ॥ ४७ ॥ स्पष्टाः ॥ २४-४७॥
शुक्लध्यानवर्णनम्
BEHCHEHERSNEHCHERCHCHIGHERCHOICHCHHOTEHRISHISHEIGHER
BBCHCHHHHHHHHHETREMEIGHEREMEMOHHHHHHHe
Jain Education
a
l
For Private & Personal Use Only
SAlwww.jainelibrary.org