________________
VEVOTEEHEHCHECHEMEHEREHEHEHEREHEHEREHEHEHRISHISHEHEHEN
देवस्तदा स भगवान् सर्वज्ञः सर्वदर्यनन्तगुणः । विहरत्यवनीवलयं सुरासुरनरोरगैः प्रणतः ॥ २४ ॥ वाग्ज्योत्स्नयाऽखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि । उन्मूलयति क्षणतो मिथ्यात्वं द्रव्य-भावगतम् ॥ २५॥ तन्नामग्रहमात्रादनादिसंसारसंभवं दुःखम् ।। भव्यात्मनामशेष परिक्षयं याति सहसैव ॥ २६ ॥ अपि कोटीशतसङ्ख्याः समुपासितुमागताः सुर-नराद्याः। क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेन ॥ २७ ॥ त्रिदिवौकसो मनुष्यास्तिर्यञ्चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगतं वचनं धर्मावबोधकरम् ॥ २८ ॥ आयोजनशतमुग्रा रोगाः शाम्यन्ति तत्प्रभावेन । उदयिनि शीतमरीचाविव तापरुजः क्षितेः परितः ॥ २९ ॥
BHBHISHEHEREHEMEHCHEHEHENSHOTSHEHEYEHCHEHEHEYENEHEYENE
॥ ११६५॥
१,२०भावेण-मु.
॥
Jain Education 100nal
For Private & Personal Use Only
www.jainelibrary.org