________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥। ११६० ॥
Jain Education I
यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्याव्यभिचाराद् ध्यानशब्दाभिधेयो भवति ॥। ११ ॥
ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह
पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा ।
शब्दार्थ बहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ १२ ॥
यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद् भ्रमति, तथा मनःप्रभृति सर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति ।
तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनः सद्भावादयोगिनो ध्यानम् ।
66
१ जह छउमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो। तह केवलिणो काओ सुनिश्चलो भण्णए झाणं ॥ ८४ ॥ " इति ध्यानशतके ||
२ ऽपि निश्चलः - खं. संपू. ॥ ३ तुला - “ पुग्वदपओगओ चिय कम्मविणिजरणहे उतो यावि। सहत्थबहुत्ताओ तह जिणचंदामाओ य ॥ ८५ ॥ चित्ताभावे विसया सुहुमोवरय किरियाह भण्णंति । जीवोवओगसम्भावओ भवत्थस्स झाणाई || ८६ ॥ " इति ध्यानशतके ||
For Private & Personal Use Only
एकादशः
प्रकाशः
श्लोकः १२
।। ११६० ।।
5
शुक्लध्यानवर्णनम्
10
www.jainelibrary.org