________________
।। ११५९ ।।
Jain Education
चतुर्ष्वपि योगसख्यां निरूपयति-
एक - त्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगानां चतुर्थ तु ॥ १० ॥
आद्यं पृथक्त्ववितकं सविचारं मनः प्रभृत्येक योगभाजां योगत्रयभाजां वा तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनः प्रभृत्यन्यतरैकयोगानाम्, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति, तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगानामयोगिकेवलिनां शैलेशीगतानां भवति ।
योगस्तु काय वामनभेदात् त्रिविधः । तत्रैौदारिक वैक्रियाऽऽहारक- तैजस-कार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिक - वैक्रिया - ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यस मृह साचिव्याज्जीवव्यापारो वाग्योगः । औदारिक- वैक्रिया - SSहारकशरीरव्यापाराहृतमनोद्रव्य समूहसाचिव्याज्जीवव्यापारो मनोयोगः ॥ १० ॥
नंनु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनः स्थैर्यम्, तदेतत् कथम् ?
इत्याह-
छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः ।
निश्चलमङ्गं तद्वत् केवलिनां कीर्तितं ध्यानम् ॥ ११ ॥
१ तुला -- “ पढमं जोगे जोगेसु वा मयं वितियमेयजोगम्मि । तइयं च कायजोगे सुकमजोगम्मि य चउत्थं ॥ ८३ ॥ " इति ध्यानशतके || २] इत आरभ्य ध्यानशतकस्य [गा० ८४-८६ ] आचार्यश्री हरिभद्रसूरिविरचितवृत्तौ शब्दतोऽर्थतश्च बहुशः समानप्रायम् ॥
For Private & Personal Use Only
Feleere
5
10
॥ ११५९ ।।
www.jainelibrary.org