________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
।। ११५८ ।।
Jain Education Int
तृतीयभेदं व्याचष्टे --
निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् ॥ ८ ॥
निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्रास- निःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा--" दरदलित हरिद्राग्रन्थिगौरं शरीरम् " [
] ॥ ८ ॥
चतुर्थभेदं व्याचष्टे --
aafor: शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ ९ ॥
स्पष्टः ॥ ९ ॥
१ तुला - " निव्वाणगमणकाले केवलिणो दर निरुद्ध जोगस्स । सुहुमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स ॥ ८१ ॥ " इति ध्यानशतके ॥ २ काययोगक्रिया शां. ॥ ३ अप्रतिपाति - संपू. मु. ॥ ४ चतुर्थ मेदं हे. विना ।। ५ तुला - "तस्सेव य सेलेसीगयस्स सेलोव्व णिष्पकंपस्स । वोच्छिन्न किरियम पडिवाइ झाणं परमसुक्कं ॥ ८२ ॥” इति ध्यानशतके ॥
६ स्पष्टः ॥ - नास्ति शां. खं. हे । संपू. मध्ये त्वत्र खण्डितं पत्रम् ॥
For Private & Personal Use Only
एकादशः
प्रकाशः
लोकौ
८-९
।। ११५८ ।।
5
शुक्लध्यानवर्णनम्
10
www.jainelibrary.org