________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ११५४ ॥
Jain Education I
ज्ञेयं प्रक्षीणमोहस्य पूर्वज्ञस्यामितद्युतेः । सवितर्कमिदं ध्यानमेकत्वम तिनिश्चलम् ॥ २१६७ ॥ १८ अपृथक्त्वमविचारं सवितर्क च योगिनः । एकत्वमेकयोगस्य जायते ऽत्यन्तनिर्मलम् ॥ २१६८ ॥ द्रव्यं चैकमणुं चैकं पर्यायं चैकर्मश्रमः । चिन्तयत्येकयोगेन यत्रैकत्वं तदुच्यते ॥ २१६९ ।। उक्तं चएकं द्रव्यमथाणुं वा पर्यायं चिन्तयेद् यदि । योगेनैकेन यदक्षीणं तदेकत्वमुदीरितम् ॥ २१७० ॥ इति । २१ अस्मिन् सुनिर्मलध्यान हुताशे प्रविजृम्भिते । विलीयन्ते क्षणादेव घातिकर्माणि योगिनः || २१७१ ॥ २२ - बोधरोधकद्वन्द्वं मोह-विघ्नस्य चापरम् । स क्षिणोति क्षणादेव शुक्लधूमध्वजार्चिषा ॥ २१७२ ।। २३ आत्मलाभमथासाद्य शुद्धिं चात्यन्तिकीं पराम् । प्राप्नोति केवलज्ञानं तथा केवलदर्शनम् ॥ २१७३ ॥ अलब्धपूर्वे आसाद्य तदासौ ज्ञानदर्शने । वेत्ति पश्यति निःशेषं लोकालोकं तथा स्थितम् || २१७४ ।। २४ तदा स भगवान् देवः सर्वज्ञः सर्वदोदितः । अनन्तसुखवीर्यादिभूतेः स्यादग्रिमं पदम् ॥ २१७५ ।।
10
11
12
13
इन्द्र-चन्द्रार्क भोगीन्द्र नरा-मरनतक्रमः । विहरत्यवनीपृष्ठं स शीलैश्वर्यलाञ्छितः ॥ २१७६ ॥ २५ उन्मूलयति मिथ्यात्वं द्रव्य भावगतं भुवि । बोधयत्यपि निःशेषां भव्यराजीवमण्डलीम् ॥ २१७७ ॥ ज्ञानलक्ष्मीं तपोलक्ष्मीं लक्ष्मीं त्रिदशयोजिताम् । आत्यन्तिकीं च संप्राप्य धर्मचक्राधिपो भवेत् ॥ २१७८ ॥ कल्याणविभवं श्रीमान् सर्वाभ्युदयसूचकम् । समासाद्य जगद्वन्द्यं त्रैलोक्याधिपतिर्भवेत् ॥ २१७९ ।।
1 'मग्रिमम् LF J ॥ 2 यत्रैकत्वमुदीरितम् T ॥ 3 यतिः MY | 4 यत् क्षीणं MLFJ
तथासौ MN ||
8 तदासो LT FI
6 क्षणोति PSTF ॥ 7 SYR | भावगतं विभुः
9 वानेव MNS ॥ "मण्डलम् LSFXR||
॥
13
For Private & Personal Use Only
5 सुनिश्चल X Y ॥
10 योगीन्द्र J ॥ 11 " भावमलं विभुः 14 समास्वाद्य N |
12 निःशेषं STXYR I
alladeeeeee
एकादशः प्रकाशः
लोकः ५
॥ ११५४ ॥
5
शुक्लध्यान
वर्णनम्
10
15
www.jainelibrary.org.