SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति एकादशः प्रकाशः श्लोकः ५ ॥ ११५२ ।। विभूषितं योगशास्त्रम् शुक्लध्यानवर्णनम् उक्तं चनिष्क्रिय करणातीतं ध्यान-धारणवर्जितम्। अन्तर्मुखं च यश्चित्तं तच्छुक्लमिति पठ्यते ॥ २१४४ ।। उक्तं चशुचिगुणयोगाच्छुकलं कषायरजसः क्षयादुपशमाद्वा। वैडूर्यमणि शिखा इव सुनिर्मलं निष्पकम्पं च ॥ २१४५ ॥ इति । कषायमलविश्लेषात् प्रशमाद्वा प्रसूयते । यतः पुंसामतस्तज्ज्ञैः शुक्लमुक्तं निरुक्तिकम् ।। २१४६ ।। छमस्थयोगिनामाद्ये द्वे शुक्ले परिकीर्तिते। द्वे चान्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम् ॥ २१४७ ॥ |१३-१४ श्रुतज्ञानार्थसम्बन्धाच्छ्रतालम्बनपूर्वके। पूर्व परे जिनेन्द्रस्य निःशेषालम्बनच्युते ॥ २१४८ ॥ ५ सवितर्क सविचारं सपृथक्त्वं च कीर्तितम् । शक्लमाद्यं द्वितीयं तु विपर्यस्तमतोऽपरम् ।। २१४९ ।। सवितर्कमविचारमेकत्वपदलाञ्छितम् । कीर्तितं मुनिभिः शक्लं द्वितीयमतिनिर्मलम् ॥ २१५० ।। सूक्ष्मक्रियाप्रतीपाति तृतीयं सार्थनामकम् । समुच्छिन्नक्रिय ध्यानं तुर्यमार्निवेदितम् ॥ २१५१ ॥ १० तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम्। तृतीयं तनुयोगानां स्यात् तुरीयमयोगिनाम् ॥ २१५२ ॥ तद्यथा-- पृथक्त्वेन वितर्कस्य वीचारो यत्र विद्यते। सवितर्क सविचार सपृथक्त्वं तदिष्यते ॥ २१५३ ॥ अवीचारो वितर्कस्य यंत्रकत्वेन सस्थितः। सवितर्कमवीचार तदेकत्वं विदुर्बुधाः ॥ २१५४ ॥ 1 उक्तं च P विना नास्ति ।। 2 उक्तं च M LS विना नास्ति ।।3 शिखामिव JY॥ 4 द्वे तु शुक्ले प्रकीर्तिते SIXY R || का 5 चान्ते M NS विना ॥ 6 मतः परम् LFT || 7 काययोगानां N|| 8 तद्यथा PM बिना नास्ति ॥ 9 विचारस्य M || BICHEHREHERECTRICICHEHEHORICISHEHEROHRISHISHCHEHR 5 Jain Education Cbnail For Private & Personal Use Only 2 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy