________________
॥ ११५१ ।।
Jain Education
Bedeoe
please
शुक्लध्यानस्य भेदानाह
ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्रतुर्धा तत् ॥ ५ ॥
नानात्वं पृथक्त्वम्, श्रुतं वितर्कः, विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्क सविचारं प्रथमम् । ऐक्यमपृथक्त्वम्, एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवतीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ॥ ५ ॥
१ " आज्ञा-पाय-विपाक संस्थान विचयाय धर्म्यमप्रमत्तसंयतस्य ॥ ९३७ ॥ उपशान्त क्षीणकषाययोश्च ॥ ९३८ ॥ शुक्ले चाद्ये पूर्वविदः । परे केवलिनः । पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि । तत् व्येक काययोगायोगानाम् । काश्रये सवितर्क पूर्वे । अविचारं द्वितीयम् । वितर्कः श्रुतम् । विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ९ ३७-४६ ॥ इति तत्त्वार्थसूत्रे | २ च चतुर्थम् - शां. ॥ ३ ज्ञानार्णवेऽर्थतः समानाः शुक्लध्यानविषयका बहवः श्लोका उपलभ्यन्ते । तेऽप्यत्रोपन्यस्यन्ते । narasङ्कः योगशास्त्रैकादशप्रकाशस्य, अन्त्यस्तु ज्ञानार्णवस्येति ज्ञेयम् । ज्ञानार्णवस्था: श्लोकाः
" अथ धर्म्यमतिक्रान्तः शुद्धिं चात्यन्तिकीं श्रितः । ध्यातुमारभते धीरः शुक्लमत्यन्त निर्मलम् ॥ २१४२ ॥ २ आदि संहननोपेतः पूर्वज्ञः पुण्यचेष्टितः । चतुर्विधमपि ध्यानं स शुक्लं ध्यातुमर्हति ॥ २१४३ ॥
1 श्लोकोऽयं M N मध्ये नास्ति ॥ 2 प्रशान्तः पुण्य P ॥
For Private & Personal Use Only
10
॥ ११५१ ।।
www.jainelibrary.org