________________
एकादशः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥११५० ॥
प्रकाशः श्लोको
॥ ११५० ।।
BIRCHEICICICICICICICICICICICICICIBHBHISHCHCHHEHEREI
इदमेव भावयति--
धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः ।
शुक्लध्याने तस्मानास्त्यधिकारोऽल्पसाराणाम् ॥ ३॥ स्पष्टम् । यदाह--
“छिन्ने मिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष-वातादिदुःखैरपि न कम्पते ॥ १॥ ___न पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्तिवत् ॥२॥"[ । इति ॥३॥
ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तहीदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह--
अनवच्छित्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः ।
दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ ४॥ यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ॥ ४ ॥ १ दृश्यतां पृ० ११४९ टि० १॥ २ निर्वृत्ति०-खं. ॥
HOTOHIBICHEHEREHENSIBIDIOHCHEHDICHEHRISHCHECHHETRIEVE
शुक्लध्यानवर्णनम्
Jain Education
For Private & Personal use only
|www.jainelibrary.org