________________
॥। ११४९ ॥
Jain Education Int
शुक्लध्यानस्याधिकारिणं निरूपयति-
दमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् ।
स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् ॥ २ ॥
आदिमं वज्रर्षभनाराच संहननं येषां ते तथा । सकलश्रुतात् पूर्व प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम् माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः ॥ २ ॥
"
१ “चलत्येवाल्पसत्त्वानां क्रियमाणमपि स्थिरम् । चेतः शरीरिणां शश्वद् विषयैर्व्याकुलीकृतम् ॥ २११६ ।।
न स्वामित्वमतः शुक्ले विद्यतेऽत्यल्पचेतसाम् । आद्यसंहननस्यैव तत् प्रणीतं पुरातनैः ॥ २११७ ॥ उक्तं च-छिन्ने भन्ने हते दग्धे देहे स्वमिव दूरगम् । प्रपश्यन् वर्ष-वातादिदुःखैरपि न कम्पते ॥ २११८ ॥
न पश्यति तदा किञ्चिन्न शृणोति न जिघ्रति । स्पृष्टं किञ्चिन्न जानाति साक्षान्निर्वृत्तलेपवत् || २११९ ॥ इति । " इति ज्ञानार्णवे ।।
"वज्रसंहननोपेताः पूर्वश्रुतसमन्विताः । दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ ३५ ॥
तासामध्यभावे तु ध्यातुं शुक्लमिहाक्षमान् । ऐदंयुगीनानुद्दिश्य धर्मध्यानं प्रचक्ष्महे ॥ ३६ ॥” इति तत्त्वानुशासने || २ ० नाराचलक्षणं संहननं खं. ॥। ३ तथोक्ताः- शां. ॥
1 साक्षान्निर्वृति० F ॥ 2 इति PM विना नास्ति ॥ For Private & Personal Use Only
aalale
deledeesaa
10
।। ११४९ ।। www.jainelibrary.org