________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
॥११४६ ॥
Jain Education
महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्-भूषा - ऽम्बरभूषितम् ॥ १९ ॥
विशिष्टवीर्य-बोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सवन्ते सुखं चानुपमं चिरम् ॥ २० ॥
इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते ॥ २१ ॥
दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणावतरन्ति महीतले ॥ २२ ॥
दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ॥ २३ ॥
& Personal Use Only
दशमः
प्रकाशः
श्लोकाः १९२०-२१-२२
-२३
॥ ११४६ ॥
5
धर्म्यध्यान
फल
वर्णनम्
10 www.jainelibrary.org