SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ WHETHEREHEATEHRIRBTCHEHRIGHEHERECEMBICKSTRICHE उक्तं च-- "अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मुत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ १॥" [ ] १७ ॥ आमुष्मिकं फलं श्लोकचतुष्टयेनाह त्यक्तसङ्गास्तनुं त्यक्त्वा धर्म्यध्यानेन योगिनः । ग्रेवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ॥ १८ ॥ १ "अथावसाने स्वतनुं विहाय ध्यानेन संन्यस्तसमस्तसङ्गा । ग्रैवेयकानुत्तरपुण्यवासे सर्वार्थसिद्धौ च भवन्ति भव्याः॥२१२८॥ तत्राचिन्त्यमहाप्रभावकलित लावण्यलीलान्वितं सग्भूषाम्बरदिव्यलाञ्छनचितं चद्रावदातं वपुः। सम्प्राप्योन्नतवीर्यबोधसुभगं कामज्वरार्तिच्युतं सेवन्ते विगतान्तरायमतुलं सौख्यं चिरं स्वर्गिणः ॥ २१२९ ।। सर्वाभिमतभावोत्थं निर्विघ्नं स्वःसुखामृतम् । सेवमाना न बुध्यन्ते गतं जन्म दिवौकसः ॥२१३० ॥........ तस्माच्च्युत्वा त्रिदिवपटलाद् दिव्यभोगावसाने कुर्वन्त्यस्यां भुवि नरनुते पुण्यवंशेऽवतारम् । तत्रैश्वर्यं चरमवपुषां प्राप्य देवोपनीतै गैर्नित्योत्सवपरिणतैाल्यमाना वसन्ति ।। २१३७ ।। ततो विवेकमालम्ब्य विरज्य जननभ्रमात् । त्रिरत्नशुद्धिमासाद्य तपः कृत्वाऽन्यदुष्करम् ॥ २१३८ । धर्मध्यानं च शुक्लं च स्वीकृत्य निजवीर्यतः। कृत्स्नकर्मक्षयं कृत्वा व्रजन्ति पदमव्ययम् ॥ २१३९ ॥” इति ज्ञानार्णवे ॥ 1 स्वीकृत्यानन्तवीर्यतः M N JX || 2 घातिकर्म• LS FR || BHETCHENRICERTERRRENCHEHRTCHERRREIGHBHeaRICK ॥११४५॥ Jain Education Intel For Private & Personal use only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy