________________
स्वोपक्ष
वृत्ति विभूषितं योगशास्त्रम्
दशमः प्रकाशः श्लोको
॥ ११४४॥
॥११४४॥
धर्म्यध्यान
वर्णनम्
DEHREEKRISSICICISCHEMEICHEREICHERBTCHEHREENET
धर्म्यध्यानस्यैव स्वरूपविशेषमाह--
धर्म्यध्याने भवेद् भावः क्षायोपशमिकादिकः ।
लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ॥ १६ ॥ क्षायोपशमिकादिक इत्यादिग्रहणादोपशमिकस्य क्षायिकस्य च ग्रहणम्, न त्वौदयिकस्य । यदाह
"धर्म्यमप्रमत्तसंयतस्य उपशान्त-क्षीणकषाययोश्च ।" [तत्त्वार्थ० ९।३७-३८] धर्म्यध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथा-पीतलेश्या, ततोऽपि विशुद्धा पद्मलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्येति ॥ १६॥ चतुर्विधस्य धर्म्यध्यानस्य फलमाह--
अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते ।
जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ॥ १७ ॥ स्पष्टः । १ अत्र संपू. मध्ये खण्डितं पत्रम्, शां. खं, मध्ये कः पाठ इति न ज्ञायते, मु. हे. मध्ये धर्म० इति पाठः, तथापि पूर्वापरविचारणया धर्म्य० इति सम्यक् पाठो भाति ॥ २ "धर्मध्यानस्य विज्ञेया स्थितिरान्तर्मुहर्तिकी ॥ क्षायोपशमिको भावो लेश्या शुक्लैव शाश्वती ॥ २१२५ ॥” इति ज्ञानार्णवे ॥
२" इदमत्यन्तनिवेद-विवेक-प्रशमोद्भवम् । स्वात्मानुभवमत्यक्षं योजयत्यङ्गिनां सुखम् ॥२१२६ ॥ उक्तं च
३ अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्र पुरीषमल्पम् कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि | चिह्नम् ॥ २१२७ ॥"[ ] इति ।" इति ज्ञानार्णवे॥
VISHCHESIGNCHECHECEMERGRICICICICERESERever
Jain Education Int
For Private
Personal Use Only
क
ww.jainelibrary.org