SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ११४२ ॥ अपि च उदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ॥ ७ ॥ इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । स्वं स्वं फलं प्रयच्छन्ति तानि त्वष्टैव तद्यथा ॥ ८ ॥ जन्तोः सर्वज्ञरूपस्य ज्ञानमात्रियते सदा । येन चक्षुः पटेनेव ज्ञानावरणकर्म तत् ॥ ९ ॥ मति श्रुताऽवधि-मनःपर्यायाः केवलं तथा । यदात्रियन्ते ज्ञानानीत्येतज्ज्ञानावृतेः फलम् ॥ १० ॥ पञ्च निद्रा दर्शनानां चतुष्कस्यावृतिश्च या । दर्शनावरणीयस्य विपाकः कर्मणः स तु ॥ ११ ॥ यथा दिक्षुः स्वाम्यत्र प्रतीहारनिरोधतः । न पश्यति स्वमप्येवं दर्शनावरणोदयात् ॥ १२ ॥ मधुलिप्तासिधाराग्रास्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनस्वभावं परिकीर्तितम् ॥ १३ ॥ सुरापानसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा कृत्याकृत्येषु मुह्यति ॥ १४ ॥ तत्रापि दृष्टिमोहाख्यं मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु विरतिप्रतिषेधनम् ॥ १५ ॥ नृ-तिर्यङ-नारका -ऽमर्त्यभेदादायुश्वतुर्विधम् । स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् ॥ १६ ॥ गति - जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य शरीरेषु शरीरिणाम् ॥ १७ ॥ उच्चैर्भवेद् गोत्रं कर्मोचैनींचगोत्रकृत् । क्षीरभाण्ड -सुराभाण्ड भेदकारिकुलालवत् ॥ १८ ॥ १. “ उदय-क्खय-क्खयोवलमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्य ॥ ५७२ ।। " इति विशेषावश्यकभाष्ये ॥ २ ० पर्यायं शां. ॥ ३ प्रति०- मु. ॥ For Private & Personal Use Only Jain Educationational Heeeeeeeeer दशमः प्रकाशः श्लोकः १३ ।। ११४२ ।। 5 विपाक विचय धर्म्यध्यानवर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy