________________
॥। ११४१ ॥
Jain Education I
एतदेव भावयति-
या संपदाऽर्हतो या च विपदा नारकात्मनः । एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः ॥ १३ ॥
'आ अर्हतः, आ नारकात्मनः' इति चाभिव्याप्तौ पञ्चमी । शेषं स्पष्टम् । अत्रान्तरश्लोकाः-
विपाकः फलमाम्नातः कर्मणां स शुभाशुभः । द्रव्य क्षेत्रादिसामग्र्या चित्ररूपोऽनुभूयते ॥ १ ॥ शुभस्तत्राङ्गना- माल्य - खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्त्राऽग्नि-विषादिभ्योऽनुभूयते ॥ २ ॥ क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान - जाङ्गला - Sरण्यप्रभृतावशुभः पुनः ।। ३ ॥
।
काले त्वशीतलानुष्णे वसन्तादौ रतेः शुभः मनः प्रसाद-सन्तोषादिभावेषु शुभो भवेत् । सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमर्त्य तिर्यङ- नरकादिभवेष्वशुभः पुनः || ६ |
उष्णे शीते ग्रीष्मे हेमन्तादौ भ्रमणतोऽशुभः ॥ ४ ॥ क्रोधा ऽहङ्कार -रौद्रत्वादिभावेष्वशुभः पुनः ॥ ५ ॥
१ शेषः स्पष्टः- शां. ॥
२ " कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् । आसाद्य नियतं नाम द्रव्यादिकचतुष्टयम् ॥ १६५९ ।। " इति ज्ञानार्णवे ॥
३ चित्रभूतो- शां. ॥ ४ ग्रीष्महेमन्तादौ - शां. खं. संपू. ॥
For Private & Personal Use Only
aereeeeeeelaaraat
10
॥। ११४१ ॥
www.jainelibrary.org