SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् दशमः प्रकाशः श्लोकः १२ ।। ११४०॥ 5 ॥११४०॥ अत्रान्तर श्लोकाः-- अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टायतीनामपायाः स्युः सहस्रशः ॥ १॥ मया मोहान्धतमसा विवशीकृतचेतसा। किं किं नाकारि कलुषं कस्कोऽपायोऽप्यवापि न ॥२॥ यद्यद् दुःखं नारकेषु तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं ममैव हि विचेतसः ॥ ३॥ प्राप्यापि परमां बोधिं मनोवाकायकर्मजैः। दृश्चेष्टितर्मयेवायं शिरसि ज्वालितोऽनलः ॥ ४॥ स्वाधीने मुक्तिमार्गेऽपि कुमार्गपरिमार्गणैः। अहो आत्मंस्त्वयैवैष स्वात्माऽपायेषु पातितः ॥५॥ यथा प्राप्तेऽपि सौराज्ये भिक्षां भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे भवाय भ्रान्तवानसि ॥ ६॥ इत्यात्मनः परेषां च ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यानमधिकुर्वीत योगवित ॥ ७ ॥ ११ ।। अथ विपाकविचयमाह-- प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥ १२ ॥ स्पष्टः ।। १२ ॥ १ मायामोहा०-शां. बिना ॥ २ ०तमसविवशी०-संपू. विना ।। ३ नर०-शां. ॥ ४ "प्राप्यापि तव सम्बोधि मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ शिरसि ज्वालितोऽनलः ॥१६॥” इति वीतरागस्तोत्रे ॥ ५ युक्ति-शां. ॥ ६ स्त्वयैवायं स्वा०-शां. ॥ ७“स विपाक इति ज्ञेयो यः स्वकर्मफलोदयः। प्रतिक्षणसमुद्भतश्चित्ररूपः शरीरिणाम् ॥ १६५८ ॥” इति ज्ञानार्णवे ॥ विविधहे प्रकारैः रूपातीतवर्णनम् 10 For Private & Personal Use Only FAlw.jainelibrary.org Jain Education Intelor
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy