SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ॥। १९३९ ।। Jain Education नय-प्रमाण संसिद्धं पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः ॥ ५ ॥ अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्य साम्राज्यश्रीविभूषितम् ॥ ६ ॥ दुर्लभं दूरभव्यानां भव्यानां सुलभं भृशम् । गणिपिटक तयोश्चैर्नित्यं स्तुत्यं नरामरैः ॥ ७ ॥ एवमाज्ञां समालम्ब्य स्याद्वादन्याययोगतः । द्रव्य - पर्यायरूपेण नित्यानित्येषु वस्तुषु ॥ ८ ॥ स्वरूप-पररूपाभ्यां सदसद्रपशालिषु । यः स्थिरः प्रत्ययो ध्यानं तदाज्ञाविचयायम् ॥ ९ ॥ ९ ॥ अथापायविचयमाह - राग-द्वेष कषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ॥ १० ॥ राग-द्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ॥ १० ॥ तस्य फलमाह - ऐहिका - ssमुष्मिक पायपरिहारपरायणः । ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः ॥ ११ ॥ स्पष्टः ।। ११ ।। १ " अनेक पदविन्यासैरङ्गपूर्वैः प्रकीर्णकैः । प्रसृतं यद् विभात्युच्चै रत्नाकर इवापरः ॥ १६३० ||" इति ज्ञानार्णवे || २ " अपायविचयध्यानं तद् वदन्ति मनीषिणः । अपायः कर्मणां यत्र सोपायः स्मर्यते बुधैः ॥ १६४० ॥” इति ज्ञानार्णवे ॥ For Private & Personal Use Only 10 | ।। १९३९ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy