________________
REHREEHEROEMERHIGHCOMETERSISTERCURRECE
प्रकारान्तरेण रूपस्थं ध्येयं त्रिभिः श्लोकैराह--
राग-द्वेष-महामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥ ८ ॥ तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । अक्ष्णोरमन्दमानन्दनिःस्यन्दं दददद्भुतम् ॥ ९॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः ।
निर्निमेषदृशा ध्यायन रूपस्थध्यानवान् भवेत् ॥ १० ॥ स्पष्टाः ।। ८-१०॥ ततश्च
योगी चाभ्यासयोगेन तन्मयत्वमुपागतः ।
सर्वशीभूतमात्मानमवलोकयति स्फुटम् ॥ ११ ॥ १ " तद्गुणग्रामसंलीनमानसस्तद्गताशयः। तद्भावभावितो योगी तन्मयत्वं प्रपद्यते ॥ २०७३ ॥ तथाहि
यदाऽभ्यासवशात् तस्य तन्मयत्वं प्रजायते। तदाऽऽत्मानमसौ ध्यानी सर्वशीभूतमीक्षते ॥ २०७४ ॥ एष देवः स सर्वज्ञः सोऽहं तद्पतां गतः। तस्मात् स एव नान्योऽहं विश्वदर्शीति मन्यते ॥ २०७५ ॥ उक्तं च'येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ॥ २०७६॥' इति । 1 स्तद्गुणाशयः M N ॥ 2 ज्ञानी L S F Y R |
॥१३११॥
Jain Education inte
For.Private &Personal use only
klww.jainelibrary.org