SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥११२९॥ . ॥ अथ नवमः प्रकाशः ॥ ॥ अर्ह ॥ अथ रूपस्थं ध्येय सप्तमिः श्लोकैराह-- मोक्षश्रीसम्मुखीनस्य विध्वस्ताखिलकर्मणः । चतुर्मुखस्य निःशेषभुवनाभयदायिनः ॥ १॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्धामण्डलाभोगविडम्बितविवस्वतः ॥२॥ १इत आरभ्य भगवतोऽहतोऽष्टौप्रातिहार्याणि वर्णितानि । वीतरागस्तोत्रपञ्चमप्रकाशादिषु बहुषु ग्रन्थेषु प्रातिहार्यवर्णनमस्ति । हैक "अशोकवृक्षः १ सुरपुष्पवृष्टिः २ दिव्यध्वनिश्चामरमासनं च ३-५। भामण्डलं ६ दुन्दुभिरातपत्रं ७-८ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥” इति प्रसिद्धः श्लोकः । "मृगेन्द्रविष्टरारूढं मारमातङ्गघातकम्। इन्दुत्रयसमोद्दामच्छत्रत्रितयशालिनम् ॥ २०५३ ॥ हंसालीपातलीलाढ्यचामरव्रजवीजितम्। वीततृष्णं विशांनाथं वरदं विश्वरूपिणम् ॥ २०५४ ॥ दिव्यपुष्पा-ऽऽनका-ऽशोकराजितं रागवर्जितम्। प्रातिहार्यमहालक्ष्मीलक्षित परमेश्वरम् ॥ २०५५ ॥” इति शानार्णवे ॥ For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy