________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
अष्टमः
प्रकाशः काश्लोकः ७२
॥ ११२४ ॥
॥ ११२४ ॥
विविध
HERERMERELECRETREMEMERIENERRIERELEBRRIERCHOIES
अथैकेन श्लोकेन मन्त्र विद्यां चाह
चिन्तयेदन्यमप्येनं मन्त्रं कर्माघशान्तये ।
स्मरेत् सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥ ७२ ॥ अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नमः इत्येवंरूपम् । पापभक्षिणीमिति ॐ अर्हन्मुखकेवल(कमल)वासिनि | पापात्मक्षयंकरि श्रुतज्ञानज्यालासहस्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षा क्षी लूँ क्षौ क्षः क्षीरवरधवले अमृतसंभवे व व हूँ हूँ स्वाहा इत्येवंलक्षणाम् ॥ ७२ ॥
१ अथैकश्लोकेनैकेन मन्त्रं-खं. हे. । अथ श्लोकेनैकेन मन्त्रं-मु. शां.॥ २ “स्मर मन्त्रपदं वन्यजन्मसंघातघातकम्। रागााग्रतमस्तोमप्रध्वंसरविमण्डलम् ॥२०१७॥
श्रीमद्वषभादिवर्धमानान्तेभ्यो नमः । मनः कृत्वा सुनिष्कम्पं तां विद्यां पापभक्षिणीम् । स्मर सत्त्वोपकाराय या जिनेन्द्रः प्रकीर्तिता ॥ २०१८॥
ॐ अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रप्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षा क्षी खं क्षौं क्षः क्षीरधवलेऽमृतसम्भवे व व हूँ हूँ स्वाहा। पापभक्षिणी।
चेतः प्रसत्तिमाधत्ते पापपङ्कः प्रलीयते। आविर्भवति विज्ञानं मुनेरस्याः प्रभावतः ।। २०१९ ॥” इति ज्ञानार्णवे॥ ३ अस्माभिरुपयुक्तासु सर्वासु अपि शां. खं. संपू. हे. ] तालपत्रप्रतिषु 'अर्हन्मुखकेवलवासिनि' इत्येव पाठः । मु. मध्ये शानार्णवे च 'अर्हन्मुखकमलवासिनि' इति पाठः॥
BIENCHEMEHRIRHEHENSIBHIBIRHEMISHEHEMSHEHREMEDIERes
प्रकारैः
पदस्थ
वर्णनम्
Jain Education
onal
For Private & Personal Use Only
|vww.jainelibrary.org