________________
॥११२३
पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥ ६७ ॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । अष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ ६८ ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥ ६९ ॥ भीषणाः सिंह-मातङ्ग-रक्षःप्रभृतयः क्षणात् । शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥ ७० ॥ मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः ।
ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः ॥ ७१ ॥ प्रणवाद्यो मन्त्रः ॐ नमो अरहताणं । शेषं स्पष्टम् ॥ ६६-७१ ॥
१ 'अस्य कमलस्य पत्रेषु वर्तिनः वर्णान् निरूपयति' इति एकोऽर्थः, अपरस्तु 'आस्यवर्तिनः कमलस्य पत्रेषु वर्णान् का निरूपयति' इत्यर्थः । अत्र कोऽर्थः समीचीन इति सुधीभिः स्वयमेव चिन्तनीयम् ॥ २ अरि-मु.॥
॥११२३ ।।
Jain Education Int
l
For Private & Personal Use Only
Jaw.jainelibrary.org