________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ १११४ ॥
Jain Education
tional
शेशिविम्बादिवोद्भूतां स्रवन्तीममृतं सदा ।
→
विद्यां वी इति भालस्थां ध्यायेत् कल्याणकारणम् ॥ ५७ ॥
स्पष्टः ।। ५७ ।।
अमुमेव महामन्त्रं भावयन्नस्तसंशयः । अविद्याव्यालसंभूतं विषवेगं निरस्यति ॥। १९८६ ॥ इति ध्यायन्नसौ ध्यानी तत्संलीनैकमानसः । वाङ्मनोमलमुत्सृज्य श्रुताम्भोधिं विगाहते || १९८७ ।। ततो निरन्तराभ्यासान्मासैः षद्भिः स्थिराशयः । मुखरन्धाद् विनिर्यान्तीं धूमवतिं प्रपश्यति ॥ १९८८ ॥ ततः संवत्सरं यावत् तथैवाभ्यस्यते यदि । प्रपश्यति महाज्वालां निःसरन्तीं मुखोदरात् ॥ १९८९ ॥ ततोऽतिजातसंवेगो निर्वेदालम्बितो वशी । ध्यायन् पश्यत्यविश्रान्तं सर्वशमुखपङ्कजम् ॥ १९९० ॥ अथाप्रतिहतानन्दप्रीणितात्मा जितश्रमः । श्रीमत्सर्वशदेवं स प्रत्यक्षमिव वीक्षते ।। १९९१ ॥ सर्वातिशयसम्पूर्ण दिव्यरूपोपलक्षितम् । कल्याणमहिमोपेतं सर्वसत्वाभयप्रदम् ॥। १९९२ ॥ प्रभावलय मध्यस्थं भव्य राजीवरञ्जकम् । ज्ञानलीलाधरं धीरं देवदेवं स्वयम्भुवम् ॥ १९९३ ॥ ततो विधूततन्द्रोऽसौ तस्मिन् संजातनिश्चयः । भवभ्रममपाकृत्य लोकाग्रमधिरोहति ।। १९९४ ।। " इति ज्ञानार्णवे ॥ १ " स्मर सकलसिद्धविद्याप्रधानभूतां प्रसन्नगम्भीराम् । विधुबिम्वनिर्गतामिव शरत्सुधार्द्रा महाविद्याम् ॥ १९९५ ॥ वीं ।
^^^**
अविचलमनसा ध्यायँल्ललाटदेशस्थितामिमां देवीम् । प्राप्नोति मुनिरजस्रं समस्तकल्याणनिकुरम्बम् || १९९६ ।। '
1 संवत्सरं सायं तथै ॥ 2 वीरं SFJXR ॥ 3 "देशे PLE विना ॥
इति ज्ञानार्णवे ॥ " २ क्लीं- शां. । क्षीं खं. ॥ 4 ॐ मल्यू N ॥
aalaede
सप्तमः
प्रकाशः
श्लोकः ५७
॥ १११४ ॥
5
विविध
प्रकारैः
पदस्थ -
वर्णनम्
10
15
www.jainelibrary.org