________________
॥ १११३ ॥
Jain Education
Blalaladia
इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥ ५२ ॥ मासैः षड्भिः कृताभ्यासः स्थिरीभूतमनास्ततः । निःसरन्तीं मुखाम्भोजाच्छिखां धूमस्य पश्यति ॥ ५३ ॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥ ५४ ॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः । भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥ ५५ ॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः । मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरम् ॥ ५६ ॥
मायाबीजं ही इति । शेषं स्पष्टम् ॥ ४७-५६ ॥ तथा
वाक्पथातीतमाहात्म्यं देवदैत्योरगार्चितम् । विद्यार्णवमहापोतं विश्वतत्त्वप्रदीपकम् || १९८५ ।।
1 प्रकाशकम् J ॥
For Private & Personal Use Only
7
oceededaleelak
10
| ।। १११३ ॥
www.jainelibrary.org