SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोकाः ४८|४९-५०-५१ ॥१११२ ॥ विविध HEREMEMEHEMEHEMEMEHEKHEREHEHEHEREHEREHEREMORSEE केसंराली स्वरमयीं सुधाबिन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रवि.बात् समापतत् ॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ ४९ ॥ ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले। ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥ ५० ॥ तालुरन्ध्रेण गच्छन्तं लसन्तं भूलतान्तरे । त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवामृतम् ॥ ५१ ॥ १ केशरालीं-शां. हे. ।। तुला "स्वर्णगौरी स्वरोद्भतां केशराली ततः स्मरेत् । कर्णिकां च सुधास्यन्दबिन्दुवजविभूषिताम् ॥ १९८० ॥ प्रोद्यत्सम्पूर्णचन्द्राभं चन्द्रबिम्बाच्छनैः शनैः। समागच्छत् सुधाबीजं मायावर्ण विचिन्तयेत् ॥ १९८१ ।। विस्फुरन्तमतिस्फीतं प्रभामण्डलमध्यगम्। संचरन्तं मुखाम्भोजे तिष्ठन्तं कर्णिकोपरि ।। १९८२ ॥ ह्रीं ॥ भ्रमन्तं प्रतिपत्रेषु चरन्तं वियति क्ष। छेदयन्तं मनोध्वान्तं स्रवन्तममृताम्बुभिः ॥ १९८३ ॥ व्रजन्तं तालुरन्ध्रेण स्फुरन्तं भूलतान्तरे। ज्योतिर्मयमिवाचिन्त्यप्रभावं भावयेन्मुनिः ॥ १९८४ ॥ प्रकारैः पदस्थवर्णनम् Jain Education in For Private & Personal use only BAww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy