________________
इदानीमेकेन श्लोकेन मन्त्रद्वयमाह--
पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्घातकं तथा ।
वर्णमालाश्चितं मन्त्रं ध्यायेत् सर्वाभयप्रदम् ॥ ४६॥ पञ्चवर्ण पश्चाक्षरं ' नमो सिद्धाणं' इतिलक्षणम् , इत्येको मन्त्रः। वर्णमालाश्चितमिति द्वितीयः, स चायम्--
ॐ नमो अर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ॥ ४६ ॥ मन्त्रान्तरं व्युष्टिसहितं दशभिः भोकैराह--
ध्यायेत् सिताजं वक्त्रान्तरष्टवर्गी दलाष्टके ।
ॐ नमो अरहंताणमिति वर्णानपि क्रमात् ॥ ४७॥ १ “स्मर कर्मकलौघध्वान्तविध्वंसभास्करम् । पञ्चवर्णमयं मन्त्रं पवित्रं पुण्यशासनम् ॥ १९७६ ॥ णमो सिद्धाणं ।
सर्वसत्त्वाभयस्थानं वर्णमालाविराजितम् । स्मर मन्त्रं जगजन्तुक्लेशसन्ततिघातकम् ।। १९७७ ।। ॐ नमोऽर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय
शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ॥” इति शानार्णवे। २ दृश्यतां पृ० ११०३ टि०३॥ ३ “स्मरेन्दुमण्डलाकारं पुण्डरीकं मुखोदरे। दलाष्टकसमासीनवर्गाष्टकविराजितम् । १९७८ ॥
ॐ णमो अरहताणमिति वर्णानपि क्रमात् । एकशः प्रतिपत्रं तु तस्मिन्नेव निवेशयेत् ।। १९७९ ॥” इति ज्ञानार्णवे ॥
॥
JainEducation TERS
For Private & Personal Use Only
www.jainelibrary.org