________________
तथा--
मंगलोत्तमशरणपदान्यव्यग्रमानसः ।
चतुःसमाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ॥ ४२ ॥ तद्यथा--चत्तारि मंगलं-अरिहंता मंगल, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं । चत्तारि है लोगोत्तमा-अरिहंता लोगोत्तमा, सिद्धा लोगोत्तमा, साहू लोगोत्तमा, केवलिपण्णत्तो धम्मो लोगोत्तमो। चत्तारि सरणं
पवज्जामि-अरिहंते शरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्म सरणं पवज्जामि । चतुःसमाश्रयाणीति अर्हत-सिद्ध-साधु-धर्मसमाश्रयाणि ॥४२॥ अथ पूर्वार्धन विद्यामपरार्धेन च मन्त्रमेकेनैव श्लोकेनाह--
मुक्तिसौख्यप्रदां ध्यायेद् विद्यां पञ्चदशाक्षराम् ।
सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् ॥ ४३ ॥ १ "मङ्गल-शरणो-त्तमपदनिकुरम्ब यस्तु संयमी स्मरति । अविकलमेकाग्रधिया स चापवर्गश्रियं श्रयति ॥१९७१ ॥
चत्तारि मंगलमित्यादि ।” इति शानार्णवे। २ ०पन्नत्तो-हे विना। एवमग्रेऽपि सर्वत्र ।। ३ लोगु०-मु.। एवमग्रेऽपि सर्वत्र ॥ ४ अरहंता-शां.॥ ५ अरहंते-खं. हे.॥ ६ ०पन्नत-हे. विना ।।
NEHENSHIROMCHEHEYEHCHHeakHCHEHERCIENCIENCINGHBHER
Jain Education
For Private & Personal Use Only
Plwww.jainelibrary.org