SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥११०५॥ HETRIEHENSIBHISHEREHSHISHEHSHEHATEVEHICHRISTIRIGHGISISIS आभीरी काचिदन्येारानिन्ये प्रवरं दधि। क्रीत्वा च साधुदासीति तामुवाच प्रसन्नवाक् ॥ ३०८ ॥ त्वया नान्यत्र नेतव्यं दुग्धध्यादिकं निजम्। अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् ॥ ३०९ ॥ तथैव प्रत्यहं चक्रे साभीरी प्रीतमानसा। तां वेषवारदानेन सच्चक्रे साधुदास्यपि ॥३१॥ द्वयोः प्रववृते स्नेहः स्वस्रोरिब तयोर्महान् । आभीर्याः सदने तस्या विवाहोऽभवदन्यदा ॥ ३११ ॥ निमन्त्रितो तयोद्वाहे श्रेष्टिनावेवमूचतुः। आवामक्षणिको भद्रे नागन्तुं तत्र शक्नुवः ॥ ३१२ ॥ यतु वस्तु विवाहाहं तद्गहाणास्मदालयात्। इत्युक्त्वा ददतुर्वनधान्यालंकरणादिकम् ॥३१३ ॥ तद्दत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजनगोपानामेकशृंगारकारणम् ॥ ३१४ ॥ गोपाः प्रीता रूपवन्तौ द्वावुक्षाणी त्रिहायनी। नाम्ना कंबल-शबलौ श्रेष्ठयर्थमुपनिन्यिरे ॥३१५ ॥ श्रेष्ठिनोऽनाददानस्याप्युक्षाणी ते बलादपि। द्वारे बद्धा ययुगोंपा गोपानां स्नेह ईदृशः ॥ ३१६ ।। अथ दध्यौ जिनदासो मुच्येते यद्यम् वृषौ। हलादौ योजयिष्येते तदा हि प्राकृतैनरैः ॥३१७ ।। इह चानुपकारित्वाद्दष्पालौ किं करोमि हा। कीदृशे पातितोऽस्म्येष मूर्खस्नेहेन संकटे ।। ३१८ ।। इति ध्यात्वा कृपापूर्णः श्रेष्ठी तावपुषद्वषो। तृणादिना प्रासुकेन पयसा गलितेन च ॥ ३१९ ॥ श्रेष्ठ्यष्टम्यां चतुर्दश्यामुपवास्यात्तपौषधः। अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः ॥ ३२० ॥ जज्ञाते भद्रको तौ च धर्माकर्णनतोऽन्वहम् । श्रेष्ठि यत्राह्नि नामुक्त नाभुजातां च तत्र तौ ॥ ३२१ ॥ तृणादिकं दीयमानमपि तत्र दिने यदा। न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् ॥ ३२२॥ मयानुकंपया पुष्टावियत्कालं वृषाविमौ। अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ ३२३ ।। तयोवृषभयोरेवं बहुमान विशेषतः। चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥ ३२४ ॥ For Private & Personal Use Only BHOICHEHRISHCHCHERDISHIDHIBHIMCHCHEREICHEMICHEMEHEMISHEHONE ॥११०५ ॥ Jain Education Intl ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy