________________
॥१०९३
BEHCHEHEMEECHCHCECEMEHCHEHREECHESTEHEHEHEHE
स्पष्टः ॥ ५॥ उक्तं च
" जापाज्जयेत् क्षयमरोचकमग्निमान्द्यं कुठोदरास्म(श्म ?)-कसन-श्वसनादिरोगान् ।
प्राप्नोति चाप्रतिमवाग् महतीं महद्भ्यः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥१॥"[ ] इति ॥५॥ प्रकारान्तरेण पदमयी देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति--
अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलैः ॥ ६॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् ।
दलाग्रेषु समग्रेषु माया-प्रणवपावितम् ॥ ७॥ १०रात्मकस०-खं. संपू. । ज्ञानार्णवेऽपीदृशः पाठो मुद्रितः, तथा सिंहतिलकसूरिविरचिते मन्त्रराजरहस्येऽपीदृशः पाठः। सदृश्यतां पृ० १०९२ टिप्पणम् । अतोऽत्र 'रात्मकसन' इति पाठः समीचीन आहोस्वित् 'रामकसन०' इति पाठः समीचीन
इति सुधीभिः स्वयमेव विचारणीयम् । यदि कुष्ठोदरात्मकसन० इति पाठः स्वीक्रियते तदा 'उदरात्म०' इति एकस्य रोगस्य | नाम | यदि तु 'कुष्ठोदरास्म' इति पाठः स्वीक्रियते तर्हि 'कुष्ठोदरास्म(श्म)' इति पाठः शुद्धो भाति, 'अश्मन् ' शब्दस्य तालव्य"शकार युक्तत्वात् , तथा च '०उदरा-ऽश्म' इति रोगद्वयस्य नाम ज्ञेयम्। 'उदर रोगाणां विस्तरेण वर्णनं चरकसंहितायां चिकित्सास्थाने त्रयोदशे उदरचिकित्सिताध्याये उपलभ्यते, चतुर्दशेऽध्याये अझरोगाणां स्वरूपं वर्तते, षड्विंशेऽध्याये 'अश्मरी रोगवर्णनं विद्यते ॥ २ वाष्टकम्-शां. ॥
CHHIBICHCHEHEREHENSMISHEHICHRIDHHHHEMEHSxercreate
॥ १०९३॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org