SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं अथाष्टमः प्रकाश श्लोक ३-४-५ ॥ १०९२॥ योगशास्त्रम् ॥१०९२॥ चतुर्विशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् ॥ ३॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत् ततः स्मरेत् । संस्मरन् मातृकामेवं स्थाच्छूतज्ञानपारगः ॥ ४ ॥ स्पष्टाः ॥२-४ ॥ अस्य फलमाह-- ध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि । नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात् ॥ ५॥ १ “उक्तं च-कमलदलोदरमध्ये ध्यायन् वर्णाननादिसंसिद्धान् । नष्टादिविषयबोधं ध्याता सम्पद्यते कलात् ॥ उक्तं च-जापाज्जयेत् क्षयमरोचकग्निमान्द्यं कुष्ठोदरात्मकसनश्वसनादिरोगान् । प्राप्नोति चाप्रतिमवाङ् महतीं महद्भयः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ १९१७ ॥” इति शानार्णवे। “उक्तं च-कमलदलोदरमध्ये ध्यायन् वर्णाननादिसंसिद्धान् । नष्टादिविषयबोधो ध्यातुः सम्पद्यते कालात् ॥ ४४८ ॥ अर्ह जपात् क्षयमरोचकमग्निमान्धं कुष्ठोदरात्मकसनश्वसनादिदोषान् । प्राप्नोति चाप्रतिमवाग् महतीं महद्भयः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ।। ४४९ ॥ उक्तं च-कनककमलगर्भ कर्णिकायां निषण्णं विगततमसमर्ह सान्द्रचन्द्रांशुगीरम् । गगनमनुसरन्तं संचरन्तं हरित्सु स्मर जिनपतिकल्प मन्त्रराजं यतीन्द्र ॥ ४५०॥" इति सिंहतिलकसूरिविरचिते मन्त्रराजरहस्ये ॥ rarrivate & Persoharusoonly पदस्थवर्णनम् in Education lovww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy