SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ॥१०८९॥ १५ रेफरुद्धं कला-बिन्दुलाञ्छितं शून्यमक्षरम् । लसद्विन्दुच्छटाकोटिकान्तिव्याप्तहरिन्मुखम् ॥ १८८८ ॥ । तस्य रेफाद् विनिर्यान्तीं शनैधूमशिखां स्मरेत्। स्फुलिङ्गसन्ततिं पश्चाज्ज्वालाली तदनन्तरम् ॥ १८८९ ॥ तेन ज्वालाकलापेन वर्धमानेन सन्ततम् । दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥ १८९० ॥ १६ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १८९१ ॥ १७-१८ ततो बहिः शरीरस्य त्रिकोणं वह्निमण्डलम्। स्मरेज्ज्वालाकलापेन ज्वलन्तमिव वाडवम् ॥ १८९२॥ वह्निबीजसमाक्रान्तं पर्यन्ते स्वस्तिकाङ्कितम्। ऊर्च वायुपुरोद्भुतं निधूमं काञ्चनप्रभम् ॥ १८९३ ॥ अन्तर्दहति मन्त्राचिर्बहिर्वह्निपुरं परम् । धगद्धगिति विस्फूर्जज्ज्वालाप्रचयभासुरम् ॥ १८९४ ॥ भस्मभावमसी नीत्वा शरीरं तश्च पङ्कजम्। दाह्यभावात् स्वयं शान्तिं याति वह्निः शनैः शनैः ॥ १८९५ ।। आग्नेयी। | १९-२० विमानपथमापूर्य संचरन्तं समीरणम्। स्मरत्यविरतं योगी महावेगं महाबलम् ।। १८९६ ॥ चालयन्तं सुरानीकं धुन्वन्तं त्रिदेशाचलम् । दारयन्तं धनवातं क्षोभयन्तं महार्णवम् ॥ १८९७ ॥ व्रजन्तं भुवनाभोगे संचरन्तं हरिन्मुखे। विसर्पन्तं जगन्नीडे निर्विशन्तं धरातले ॥ १८९८ ॥ उद्धय तद् रजः शीघ्रं तेन प्रबलवायुना। ततः स्थिरीकृताभ्यासः समीर शान्तिमानयेत् ॥ १८९९॥ मारुती॥ | २१-२२ वारुण्यां स हि पुण्यात्मा धनवातचितं नमः । इन्द्रायुधतडिद्गर्जि चमत्काराकुलं स्मरेत् ॥ १९०० ॥ ॥१०८९॥ 1 लसदिन्दु • NT X Y R| 2 अहं M T F ॥ 3 ऊर्ध्ववायु • MNT XYR॥ 4 आग्नेयी PM विना नास्ति ।। 5 विदशालयम् MJXR || 6 निविशन्त SJXYR || 7 मारुती PM X बिना नास्ति ॥ 8 घनजालचितं SR || 9 'गर्जयम' TP विना॥ anal For Private & Personal Use Only Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy