________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
सझमः प्रकाशः श्लोकः
॥१०८८॥
॥१०८८॥
पिण्डस्थ
तुलार्थमुपन्यस्यन्ते, अत्र आदिमोऽको योगशास्त्रसप्तमप्रकाशश्लोकाङ्कसूचकः, अन्तिमोऽस्तु शानार्णवस्य श्लोकाङ्कः-- ९ “पिण्डस्थे पञ्च विज्ञया धारणा वीरवर्णिताः। संयमी यास्वसंमूढो जन्मपाशान् निकृन्तति ॥ १८७८ ।।
पार्थिवी स्यात् तथाग्नेयी श्वसनाख्याथ वारुणी। तत्त्वरूपवती चेति विज्ञेयास्ता यथाक्रमम् ॥ १८७९ ।।
तद्यथा१०-१२ तिर्यग्लोकसमं योगी स्मरति क्षीरसागरम्। निःशब्दं शान्तकल्लोलं हार-नीहारसंनिभम् ॥ १८८० ।।
तस्य मध्ये सुनिर्माणं सहस्रदलमम्बुजम्। स्मरत्यमितभादीप्तं द्रुतहेमसमप्रभम् ॥ १८८१ ॥ अब्जरागसमुद्भतकेसरालीविराजितम्। जम्बूद्वीपप्रमाणं च चित्तभ्रमररञ्जकम् ॥ १८८२ ।। स्वर्णाचलमयीं दिव्यां तत्र स्मरति कर्णिकाम्। स्फुरत्पिङ्गप्रभाजालपिशङ्गितदिगन्तराम् ॥ १८८३ ॥ शरच्चन्द्रनिभं तस्यामुन्नतं हरिविष्टरम् । तत्रात्मानं सुखासीनं प्रशान्तमिति चिन्तयेत् ॥ १८८४ ॥
रागद्वेषादिनिःशेषकलङ्कक्षपणक्षमम्। उद्युक्तं च भवोद्भुतकर्मसन्तानशातने ॥ १८८५ ।। पार्थिवी ॥ १३-१४ ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले। स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥ १८८६ ॥
प्रतिपत्रसमासीनस्वरमालाविराजितम्। कणिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥ १८८७ ।।
1 पिण्डस्थं PMJ विना ॥ 2 •ना वाथ SXRI 'नाख्या च J॥ 3 तद्यथा । M विना नास्ति ॥ 4 समभ्रमम् M || 15 °मति P । 'मपि M॥ 6 प्रतिपत्र MNT ||
वर्णनम्
Jain Education 22nal
For Private & Personal Use Only
www.jainelibrary.org