________________
॥१०८३॥
TEHSHEHEHEKHEHERONISHCHCHEHCHEHEHCHARTERSNEHCHEHEYENER
तद्धारणाभेदेनाह--
पार्थिवी स्यादथामेयी मारुती वारुणी तथा।
तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥९॥ स्पष्टः ॥९॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह--
तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ १० ॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥ ११ ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनाद्यतम् ।
आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणम् , यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ १ एतेषां श्लोकानां ज्ञानार्णवेन सह तुलार्थमस्य सप्तमप्रकाशस्यान्तिमं टिप्पणं द्रष्टव्यम् ॥
CHECREEHCHCHCHCHECHCHEHERECEBHBHECHCHCHCHCHCHEHS
॥१०८३॥
Jain Education
anal
For Private & Personal use only
|www.jainelibrary.org