SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं सप्तमः प्रकाशः ॥१०८२ ॥ योगशास्त्रम् ॥१०८२॥ ध्येयमेदाः प्रचयं रूपातीतं च सम्यक् तुर्यमुदाहृतम्। महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः ॥ ३८ ॥ पृथक्तत्त्वप्रमेदेन मेदोऽयं समुदाहृतः। सर्वाण्येव हि तत्त्वानि पश्चैतानि यथा शृणु ॥ ३९ ॥ भूततत्त्वाभिधानानां योगोऽधिष्ठेय इष्यते। पिण्डस्थमिति तं प्राहुः पदस्थमपरं विदुः ॥ ४०॥ मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीय॑ते । रूपातीतं परा शक्तिः सव्यापाराऽप्यनामया ॥४१॥ निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः। सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥४२॥ चतुर्विधं तु पिण्डस्थमबुद्धं बुद्धमेव च। प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् ॥ ४३ ॥ गतागतं सुविक्षिप्तं संगतं सुसमाहितम्। चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः ।। ४४ ॥" उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । मनोन्मनमनन्तं च सर्वार्थ सततोदितम् ॥ ४५ ॥ प्रचये तत्र संज्ञेयमेकं तन्महसि स्थितम्। इत्येवं पञ्चधाऽध्वानं त्रिधेदानीं निगद्यते ॥ ४६॥" इति काश्मीरसंस्कृतग्रन्थावल्यां [ग्रन्थाङ्कः ३७ ] प्रकाशिते श्री मालिनीविजयोत्तरतन्त्र द्वितीयेऽधिकारे पृ० ११-१३।। "भूततत्त्वाभिधानानां योऽशोऽधिष्ठेय उच्यते । पिण्डस्थमिति तं प्राहुरिति श्री मालिनीमते ॥ २४१ ॥ लौकिकी जागदित्येषा संज्ञा पिण्डस्थमित्यपि। योगिनां योगसिद्धयर्थ संज्ञेयं परिभाष्यते ॥ २४२ ॥ अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः। तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ २४३ ॥ लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल। नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ २४६॥" इति काश्मीरसंस्कृतग्रन्थावल्यां [ग्रन्थाङ्कः ४१] प्रकाशिते अभिनवगुप्ताचार्यविरचिते तन्त्रालोके दशम आह्निके पृ. १६५-१६७ । | "एतदेवान्यत्राप्यतिदिशति-'स्वप्नादिष्वप्ययं विधिः' इति। तेन लौकिकी संज्ञा स्वप्नः सुषुप्तं तुर्य च । यौगिकी पदस्थं रूपं | रूपातीतं च । ज्ञानीया व्याप्तिमहाव्याप्तिःप्रचयश्चेति । तुर्यातीते पुनर्वक्ष्यमाणदृशा योगो न प्रतपेदिति लोकप्रसंख्यानाभिप्रायेण तुर्यातीतं महाप्रचयश्चेति संशाद्वयमेवोक्तम् ॥ २४६ ॥ इति तन्त्रालोकस्य जयरथविरचितायां टीकायाम् , पृ० १६७ ॥ For Private & Personal use only BHEHCHCHEHEHEHRENCERTERELETEHELETERRHEENCHEHELETE Jain Education 10 onal www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy