SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ॥ १०८१॥ नरेन्द्रे वा दरिद्रे वा तुल्यकल्याणकामनः । अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः ॥ ६ ॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥ ७॥ स्पष्टाः ॥२-७॥ अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाह-- पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमानातं ध्यानस्यालम्बनं बुधैः ॥ ८॥ पिण्डं शरीरम् तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥ ८ ॥ १“ध्येयं पदस्थ-पिण्डस्थ-रूपस्था-ऽरूपमेदतः। ध्यानस्यालम्बनं प्राज्ञैश्चतुर्विधमुदाहृतम् ॥ १५॥३०॥" अमितगतिविरचिते श्रावकाचारे॥ "पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम्। चतुर्धा ध्यानमाम्नातं भव्यराजीवभास्करैः ।। १८७७॥" इति ज्ञानार्णवे॥ "भूयोऽप्यासामवस्थानां संज्ञामेदः प्रकाश्यते। पिण्डस्थः सर्वतोभद्रो जाननामद्वयं मतम् ॥३६॥ द्विसंझं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि। रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद् द्वयम् ॥ ३७॥ ॥१.८१॥ Jain Education in 1981 For Private & Personal Use Only Brow.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy