SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ॥ १०७९ ॥ Jain Education onal अथ ध्यातारं षड्डिः श्लोकैराह- अमुञ्चन् प्राणनाशेऽपि संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ॥ २ ॥ उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकार योगामृतरसायनम् ॥ ३ ॥ १ ज्ञानार्णवे विद्यमाना ध्यातृयोग्यतावर्णनपराः श्लोकाः “ विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते ।। ३५६ ॥ सत्संयमधुरा धीरैर्न हि प्राणत्ययेऽपि यैः । त्यक्ता महत्त्वमालम्व्य ते हि ध्यानधनेश्वराः ॥ ३५७ ॥ परीषहमहाव्यालैर्ग्राम्यैर्वाक्कण्टकै दृढैः । मनागपि मनो येषां न स्वरूपात् परिच्युतम् ॥ ३५८ ॥ क्रोधादिभीमभोगीन्द्रे रागादिरजनीचरैः । अजय्यैरपि विध्वस्तं न येषां यमजीवितम् ।। ३५९ ।। मनः प्रीणयितुं येषां क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या ब्रह्मचर्येऽप्यनिन्दिते ।। ३६० ॥ तपस्तरलतीव्रार्चिःप्रचये पातितः स्मरः । यै रागरिपुभिः सार्धं पतङ्गप्रतिमीकृतः ॥ ३६१ ।। निःसङ्गत्वं समासाद्य ज्ञानराज्यं समीप्सितम् । जगत्त्रयचमत्कारि चित्रभूतं चं चेष्टितम् ॥ ३६२ ॥ 1 "र्वा कण्टकै PL विना ॥ 2 समीप्सताम् M STF VC X R विना ॥ 3 विचेष्टितम् PM BN विना ॥ For Private & Personal Use Only '88888e€ 5 10 ॥ १०७९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy