SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्तिविभूतिं योगशास्त्रम् ॥ १०७२ ॥ Jain Education २६३ संक्रान्तिमपि नो वेत्ति यः समीरस्य मुग्धधीः । स तत्त्वनिर्णयं कर्तुं प्रवृत्तः किं न लज्जते ॥ १४४३ ॥ २६६ अथ कौतूहलहेतोः करोति वेधं समाधिसामर्थ्यात् । सम्यग्विनीतपवनः शनैः शनैरर्कतूलेषु || १४४४ ॥ २६७ तत्र कृतनिश्चयोऽसौ जाती- बकुलादिपुष्पमकुलेषु । स्थिरलक्ष्यतया शश्वत् करोति वेधं वितन्द्रात्मा || १४४५ ॥ कर्पूर-कुङ्कुमा-ऽगुरु-मलयज-कुष्ठादिगन्धद्रव्येषु । वरुणपवनेन बेधं करोति लक्ष्ये स्थिराभ्यासः || १४४६ ॥ कैचित् पुरप्रवेशं तन्वन्ति धनंजयेन पवनेन । स हि दुर्विचिन्त्यशक्तिः, प्रकीर्तितो वायुतत्त्वज्ञैः ॥ १४४७ ॥ २६९ एतेषु लब्धलक्ष्यस्ततोऽतिसूक्ष्मेषु पत्रिकायेषु । वेधं करोति वायुप्रपञ्चसंयोजने चतुरः || १४४८ || २७० मधुकर पतङ्ग-पत्रिषु तथाण्डजेषु मृगशरीरेषु । संचरति जातलक्ष्यस्त्वनन्यचित्तो वशी धीरः || १४४९ ॥ २७१ नरतुरगकरिशरीरे क्रमेण संचरति निःसरत्येव । पुस्तोपलरूपेषु च यदृच्छया संक्रमं कुर्यात् ॥ १४५० ॥ २७३ इति परपुरप्रवेशाभ्यासोत्थसमाधिपरमसामर्थ्यात् । विचरति यदृच्छयासौ मुक्त इवात्यन्तनिर्लेपः ॥ १४५९ ॥ 1 अथवा कौतुक मात्र फलोऽयं पुरप्रवेशो महाप्रयासेन । सिध्यति न वा कथंचिन्महतामपि कालयोगेन ॥ १४५२ ॥ स्मरगरलमनोविजयं समस्तरोगक्षयं वपुः स्थैर्यम् । पवनप्रचारचतुरः करोति योगी न संदेहः ॥ १४५३ ॥ जन्मशतजनितमुग्रं प्राणायामाद्विलीयते पापम् । नाडीयुगलस्यान्ते यतेर्जिताक्षस्य धीरस्य ॥ १४५४ ॥ उक्तं च 66 'जलबिन्दु कुशाग्रेण मासे मासे तु यः पिबेत् । संवत्सरशतं सायं प्राणायामश्च तत्समः ॥ १४५५ ॥ " इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते प्राणायामप्रकरणम् । 1 कृताभ्यासः MN LTF 2 श्लोकोऽयं P मध्ये एव विद्यते ॥ 3 तथाऽण्डजेष्वेणु M NLSTY । तथाणुज्येष्ठेषु X R ॥ 4 दृश्यतां योगशास्त्रस्य षष्ठे प्रकाशे प्रथमः श्लोकः ॥ 5 परपुर MLSTKXY R 6 उक्तं च PM मध्य एव विद्यते ॥ For Private & Personal Use Only पञ्चमः प्रकाशः श्लोकः २७३ 5 विविधाः कालज्ञानो पायाः 10 www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy