________________
॥१०७१॥
RECEIRECTORRENRELECTCHEHREEHEREHREHCHERE
सुखदुःखजयपराजयजीवितमरणानि विन इति केचित्। वायुप्रपञ्चरचनामवेदिनां कथमयं मानः ॥१४२८॥" इति ॥ कुर्वीत पूरके सत्याकृष्टिं कुम्भके तथा स्तम्भम्। उच्चाटनं च योगी रेचकविज्ञानसामर्थ्यात् ॥ १४२९ ॥ इदमखिलं श्वसनभवं सामर्थ्य स्यान्मुने तस्य । यो नाडिकाविशुद्धिं सम्यक् कर्तुं विजानाति ॥ १४३०॥ यद्यपि समीरचारश्चपलतरो योगिभिः सुदुर्लक्ष्यः। जानाति विगततन्द्रस्तथापि नाड्यां कृताभ्यासः ॥ १४३१ ॥
नाडिकाशुद्धिः। तद्यथा२५६ सकलं बिन्दुसनाथं रेफाक्रान्तं हवर्णमनवद्यम्। चिन्तयति नाभिकमले सुबन्धुरं कर्णिकारूढम् ॥ १४३२ ॥ २५७ रेचयति ततः शीघ्र पतङ्गमार्गेण भासुराक.रम्। ज्वालाकलापकलितं स्फुलिङ्गमालाकराक्रान्तम् ॥ १४३३ ॥
तरलतडिदुप्रवेगं धूमशिखावर्तरुद्धदिक्चक्रम्। गच्छन्तं गगनतले दुर्धर्ष देवदैत्यानाम् ॥ १४३४ ॥ २५८ शरदिन्दुधामधवलं गगनतलान्मन्दमन्दमवतीर्णम् । क्षरदमृतमिव सुधांशोः पूरयति पथा पुनः पुरतःः ॥ १४३५ ॥
आनीय नाभिकमलं निवेश्य तस्मिन् पुनः पुनश्चैवम्। अनलसमनसा कार्य प्रवेशनिष्कमणमनवरतम् ॥ १४३६ ॥ अथ नाभिपुण्डरीकाच्छनैः शनैर्हृदयकमलनालेन। निःसारयति समीरं पुनः प्रवेशयति सोद्योगम् ॥ १४३७॥
नाडीशुद्धिं कुरुते दहनपुरं दिनकरस्य मार्गेण । निष्कामद्विशदिन्दोः पुरमितरेणेति केऽप्याहुः ॥ १४३८ ॥ २६० इति नाडिकाविशुद्धौ परिकलिताभ्यासकौशलो योगी। आत्मेच्छयैव घटयति पुटयोः पवनं क्षणार्धन ॥ १४३९ ॥ २६१ एकस्यामयमास्ते कालं नाडीयुगद्वयं सार्धम्। तामुत्सृज्य ततोऽन्यामधितिष्ठति नाडिकामनिलः ॥ १४४० ॥
षोडशप्रमितः कैश्चिन्निर्णीतो वायुसंक्रमः। अहोरात्रमिते काले द्वयोर्नाडयोर्यथाक्रमम् ॥ १४४१॥ २६२ षट् शताभ्यधिकान्याहुः सहस्राण्येकविंशतिः। अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमाः ॥ १४४२ ॥
1 इति PM N विना नास्ति ॥ 2 सत्यामाकृष्टिं M N || 3 पवनाभ्यासोऽयम् । नाडिकाशुद्धिस्तद्यथा M NI नाडिकाविशुद्धिस्तद्यथा PLFT | 4 °नाडीयुगलं ।।। 5 °शतान्यधिकान्याहुः सहस्राण्येकविंशतिम् L S F K X R॥ 6 •र्गमागमौ KXYRI "गमागमः L F ||
For Private & Personal use only
२५९
15
॥१०७१॥
Jain Education
tional
www.jainelibrary.org