SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥ १०६९ ॥ Jain Education । २३४ आयाति गतो वरुणे भौमे तत्रैव तिष्ठति सुखेन । यात्यन्यत्र श्वसने मृत इति वहौ समादेश्यम् ॥ १४०२ ॥ २३५ घोरतरः संग्रामो हुताशने मरुति भङ्ग एव स्यात् गगने सैन्यविनाशो मृत्युर्वा युद्धपृच्छायाम् ॥ १४०३ ॥ २३६ पेन्द्रे विजयः समरे ततोऽधिको वाञ्छितश्च वरुणे स्यात् । सन्धिर्वा रिपुभङ्गात् स्वसिद्धिसंसूचनोपेतः ॥ १४०४ ॥ २३७ वर्षति भौमे मघवा वरुणे तु मैनोमतं तथाजस्त्रम् । दुर्दिनघनाश्च पवने वह्नौ वृष्टिः कियन्मात्रा || १४०५ ॥ २३८ सस्यानां निष्पत्तिः स्याद्वरुणे, पार्थिवे च सुश्लाध्या । स्वल्पापि न चाग्नेये, वाय्वाकाशे तु मध्यस्था || १४०६ ॥ २४१ नृपति- गुरु-बन्धु-वृद्धा अपरेऽप्यभिलषितसिद्धये लोकाः । पूर्णाङ्गे कर्तव्या विदुषा वीतप्रपञ्चेन ॥ १४०७ ॥ २४२ शयनासनेषु दक्षैः पूर्णाङ्गनिवेशितासु योषासु । हियते चेतस्त्वरितं नातोऽन्यद् वश्यविज्ञानम् ॥ १४०८ ॥ [ उक्तं च- " रात्र्यन्तयामवेलायां प्रसुप्ते कामिनीजने । ब्रह्मबीजं पिबेद्यस्तु बालाजीव हरेन्नरः ॥ १४०९ ॥ तहंत ससि उपरि किज्जइ सत्तवार ससि सूरहं णिजइ । तिणि वार पुणु अप्पा दिज्जइ जो जाणह सो अमणु हविस्स ॥ १४१० ॥ " २४३ अरि-ऋणिक- चौर- दुष्टा अपरेऽप्युपसर्गविग्रहाद्याश्च । रिक्ताङ्गे कर्तव्या जय लाभ सुखार्थिभिः पुरुषैः ॥ १४११ ॥ २४४ रिपुशस्त्रसंप्रहारे रक्षति यः पूर्णगात्रभूभागम् । बलिभिरपि वैरिवगैर्न भिद्यते तस्य सामर्थ्यम् ॥ १४१२ ॥ २३९ वरुण - महेन्द्रौ शस्तौ प्रश्ने गर्भस्य पुत्रदौ ज्ञेयौ । इतरौ स्त्रीजन्मकरौ, शून्यं गर्भस्य नाशाय ॥ १४१३ ॥ २४५ नासाप्रवाहदिग्भागे गर्भार्थं यस्तु पृच्छति । पुरुषः पुरुषादेशं शून्यभागे तथाङ्गना १४१४ ।। २४६ विज्ञेयः संमुखे षण्ढः शुष्मणायामुभौ शिशू । गर्भहानिस्तु संक्रान्तौ समे क्षेमं विनिर्दिशेत् ॥ १४१५ ॥ 1 "देश्यः MN | 2 मघवान् KXY R विना ॥। एतचिह्नान्तर्गतं श्लोकद्वयं N मध्ये एव वर्तते ॥ 5 सुषुम्नाया 3 मनोमास्तथा LFM विना । मनोगतस्तथा ॥ 4 [ P For Private & Personal Use Only ] 5 10 15 ॥ १०६९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy