________________
॥१०५९॥
5
TECHCHCHCHEHENGIGRIHSHREERICCCCCEHOTOS
इदानीं नाडीशुद्धिं श्लोकचतुष्टथेनाह---
नाभ्यन्जकर्णिकारूढं कला-बिन्दुपवित्रितम् । रेफाक्रान्तं स्फुरद्भासं हकारं परिचिन्तयेत् ॥ २५६ ॥ तं ततश्च तडिद्वेगं स्फुलिंङ्गार्चिःशताञ्चितम् । रेचयेत् सूर्यमार्गेण प्रापयेच नभस्तलम् ॥ २५७ ॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः । चन्द्राभं चन्द्रमार्गेण नाभिपद्मे निवेशयेत् ॥ २५८ ॥ निष्क्रमं च प्रवेशं च यथामार्गमनातरम् ।
कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ॥ २५९ ॥ स्पष्टाः ॥ २५६-२५९ ॥ नाडीसंचारज्ञाने फलमाह
नाडीशुद्धाविति प्राज्ञः संपन्नाभ्यासकौशलः ।
स्वेच्छया घटयेद्वायुं पुटयोस्तत्क्षणादपि ॥ २६० ॥ स्पष्टः ॥ २६० ॥
ISHEHECHHETRIEVEMEHEHEIRCTCHEICHEHEHETEHCHEMEHEHERE
॥१०५९।।
Jain Education
For Private & Personal Use Only
|www.jainelibrary.org