________________
॥१०४१॥
अथ पृच्छालग्नानुसारेण कालज्ञानमाह
पृच्छायामथ लग्ना-ऽस्त-चतुर्थ-दशमस्थिताः।
ग्रहाः क्रूराः शशी पष्ठाष्टमश्चेत् स्यात् तदा मृतिः ॥ २०१॥ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात् सप्तमे, चतुर्थे, दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात् तदा मृत्युः ॥ २०१॥ तथा---
पृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः ।
यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत् ॥ २०२ ॥ लग्नाधिपतयो मेषादिषु राशिषु--
" कुज-शुक्र-ज्ञेन्द्वर्क-ज्ञ-शुक्र-कुज-जीव-सौरि-शनि-गुरवः ।
भेशा नवांशकानाम् अंज-मकर-तुला-कुलीराद्याः ॥ १॥" [ इति शास्त्रादवगन्तव्याः ।। २०२॥
१ सर्वासु शां. खं. संपू. हे. तालपत्रप्रतिषु "अज-मकर-तुला-कुलीराद्याः॥” इति पाठो नास्ति । “मेशा नवांशकानामिति शास्त्रादवगन्तव्याः" इत्येव पाठो दृश्यते । अतः संपूर्णोऽयं श्लोकः मु९ अनुसारेणैवात्रोपन्यस्तः ।।
BHOMEMERICHEHEHEREHENSIBIGIRICISEMEHEKSHISHEKSHCHHEHEN
॥१०४१॥
Jain Education
www.jainelibrary.org