________________
स्वोप
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकाः १५० -१५१-१५२ |॥१०२८॥
॥१०२८॥
कालज्ञानो
दिवा संमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ ।
न दृश्यन्ते यदा ते तु षण्मास्यन्ते मृतिस्तदा ॥ १५०॥ आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत् , ते यदा न दृश्यन्ते तदा l षण्मास्या अन्ते मृत्युः ॥ १४९ ॥ १५०॥ तथा--
स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्रगम्बरम् ।
पश्येद् याम्यां खरे यान्तं खं योऽब्दार्धं स जीवति ॥ १५१ ॥ स्पष्टः ।। १५१॥ तथा--
घण्टानादो रतान्ते चेदकस्मादनुभूयते ।
पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥ १५२ ॥ स्पष्टः ॥ १५२॥ १ ते पन्नगा यदा-मु.॥
NEHEYENEHEHEREHEHEREHICHCHEHEIGHEHERCISHESHBHISHCHETER
TEEHEHREHEHEHENEERIEEEEEEEEEEEEETCHERSHEET
पायाः
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org