SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्वमात्मानं श्व-गृध्र-काक-निशाचरैर्भक्ष्यमाणम् , उपलक्षणात कृष्यमाणमपि, खरोष्ट्रायः ‘आदि'शब्दात् ।। श्व-वराहादिभिवोह्यमानम् , उपलक्षणात् कृष्यमाणम् , यदा स्वमे पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥ १३७॥ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥१०२४॥ तथा-- पञ्चमः प्रकाश श्लोको १३८-१३९ ॥१०२४॥ कालज्ञानोपायाः रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्येत तदैकादशमासतः ॥ १३८ ॥ रश्मयः किरणाः, तद्वन्तमादित्यम् अन्येषु पश्यत्स्वपि यदा रश्मिहीनं पश्यति वहिं वा रश्मियुक्तं पश्यति तदैकादशे मासे मृत्युः ॥ १३८॥ तथा वृक्षाग्रे कुत्रचित् पश्येद् गन्धर्वनगरं यदि । पश्येत् प्रेतान् पिशाचान् वा दशमे मासि तन्मृतिः ॥ १३९ ॥ गन्धर्वनगरं सत्यनगरप्रतिबिम्बकम् , तद्यदि वृक्षाग्रे पश्येत् , प्रेतान् पिशाचान् वा यदि साक्षात् पश्येत् तदा दशमे मासे मृत्युः ॥ १३९ ॥ १ वर्षान्ते मृत्युः-नास्ति शां.। २ वहिं च रश्मि-हे. ।। Jain Education For Private & Personal use only 2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy