SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रतिपद्दिवसे प्रथमतिथौ शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिण पाणिं शुक्लपक्षं प्रकल्पयेत् ॥ १२९ ॥ ॥१०२१ ॥ तथा-- अधोमध्योर्ध्वपाणि कनिष्ठाङ्गुलिगानि तु । क्रमेण प्रतिपत्-पष्ठयेकादशीः कल्पयत्तिथीः ॥ १३०॥ अवशेषाङ्गलीपर्वाण्यवशेषतिथीस्तथा। पञ्चमी-दशमी-राका पर्वाण्यङ्गुष्ठगानि तु ॥ १३१ ॥ कनिष्ठाङ्गुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठी, ऊर्ध्वपर्व एकादशी कल्पयेत् । अङ्गुष्ठवर्ज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि-अनामिकापर्वसु द्वितीया-तृतीया-चतुर्थीः, मध्यमापर्वसु सप्तम्यष्टमी-नवमीः, तर्जन्यां द्वादशीत्रयोदशी-चतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पंञ्चमी-दशमी-पञ्चदशीः कल्पयेत् ॥ १३० ॥ १३१ ॥ तथा वामपाणिं कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ १३२॥ । १०लीगानि-मु.॥ २ पञ्चमी दशमी कल्पयेत्-शां. ॥ ॥१०२१॥ ___JainEducation in a l For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy