________________
तत्र नेत्रलक्षणमाह
वामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् ।
जानीयाद् भानवीयं तु दक्षिणे द्वादशच्छदम् ॥ १२० ॥ वामे लोचने ऐन्दवं षोडशदलं पद्मं चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्म चिन्तयेत् ॥ १२० ॥ तथा
खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु ।
प्रत्येकं तत्र दृश्यानि स्वाङ्गलीविनिपीडनात् ॥ १२१ ॥ तत्र षोडशदले पझे चत्वारि दलानि खद्योतद्युतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमिति द्वयोरपि पद्मयोः ॥ १२१ ॥ तंत्र
सोमाधो भूलता-ऽपाङ्ग-प्राणान्तिकदलेषु तु।
दले नष्टे क्रमान्मृत्युः षट्-त्रि-युग्मैकमासतः ॥ १२२ ॥ १ तथा-नास्ति में. खं. हे. ॥ २ प्रत्येकमपि-मु.॥ ३ शां. मध्ये 'तत्र' इत्यस्य स्थाने 'तथा' इति पाठः ॥
eHGRIHSHMISHEHEREMERCEMERENCHEREMExararaHHHE
०१७॥
Jain Education
a l
For Private & Personal Use Only
w.jainelibrary.org